Ganpati Stotra Lyrics | Free MP3 Download | Free PDF Download
संकटनाशनं श्री गणेशस्तोत्रम् ॥श्री गणेशाय नम:॥ ॥नारद उवाच॥ प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ॥
भक्तावासं स्मरेन्नित्यामायु: कामार्थ सिध्ध्ये ॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ॥
तृतीयं कृष्णपिंगाक्षं गजवकत्रं चतुर्थकम् ॥2॥
लंबोदरं पंचमं च षष्ठं विकटमेव च ॥सप्तमं विन्धराजं च धूम्रवर्ण तथाष्टमम्। ॥3॥ नवमम् भालचन्द्रम् दशमं तु विनायकम् ॥ऐकादशं गणपति द्वादशं तु गजाननम् ॥4॥ द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ॥न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥5॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥ जपेद्द गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभते ॥संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥ अष्टानां ब्राह्मणानां च लिखित्वा य: समर्पयेत् ॥तस्यविद्या भवेत्सर्वा गणेशस्यप्रसादत: ॥8॥
॥ इतिश्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रम् सम्पूर्णम् ॥