Sign In

काली शतनाम स्तोत्रम् | Kali Shatanama Stotram In Sanskrit | Free PDF Download

काली शतनाम स्तोत्रम् | Kali Shatanama Stotram In Sanskrit | Free PDF Download

श्रीदेव्युवाच ।
पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् ।भवान्
नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ २३-१॥
श्रीभैरव उवाच ।
साधु पृष्टं महादेवि अकथ्यं कथयामि ते ।
न प्रकाश्यं वरारोहे स्वयोनिरिव सुन्दरि ॥ २३-२॥
प्राणाधिकप्रियतरा भवती मम मोहिनी ।
क्षणमात्रं न जीवामि त्वां बिना परमेश्वरि ॥ २३-३॥
यथादर्शेऽमले बिम्बं घृतं दध्यादिसंयुतम् ।दध्यादिसंयुतम्
तथाहं जगतामाद्ये त्वयि सर्वत्र गोचरः ॥ २३-४॥
शृणु देवि प्रवक्ष्यामि जपात् सार्वज्ञदायकम् जपात् सार्वज्ञदायकम् ।सार्वज्ञदायकम्
सदाशिव ऋषिः प्रोक्तोऽनुष्टुप् छन्दश्च प्रोक्तोऽनुष्टुप् ईरितः ॥ २३-५॥
देवता भैरवो देवि पुरुषार्थचतुष्टये ।
विनियोगः प्रयोक्तव्यः सर्वकर्मफलप्रदः ॥ २३-६॥
महाकाली जगद्धात्री जगन्माता जगन्मयी ।
जगदम्बा गजत्सारा जगदानन्दकारिणी ॥ २३-७॥
जगद्विध्वंसिनी गौरी दुःखदारिद्र्यनाशिनी ।
भैरवभाविनी भावानन्ता सारस्वतप्रदा ॥ २३-८॥
चतुर्वर्गप्रदा साध्वी सर्वमङ्गलमङ्गला ।
भद्रकाली विशालाक्षी कामदात्री कलात्मिका ॥ २३-९॥
नीलवाणी महागौरसर्वाङ्गा सुन्दरी परा ।
सर्वसम्पत्प्रदा भीमनादिनी वरवर्णिनी ॥ २३-१०॥
वरारोहा शिवरुहा महिषासुरघातिनी ।
शिवपूज्या शिवप्रीता दानवेन्द्रप्रपूजिता ॥ २३-११॥
सर्वविद्यामयी शर्वसर्वाभीष्टफलप्रदा ।
कोमलाङ्गी विधात्री च विधातृवरदायिनी ॥ २३-१२॥
पूर्णेन्दुवदना नीलमेघवर्णा कपालिनी ।
कुरुकुल्ला विप्रचित्ता कान्तचित्ता मदोन्मदा ॥ २३-१३

मत्ताङ्गी मदनप्रीता मदाघूर्णितलोचना ।
मदोत्तीर्णा खर्परासिनरमुण्डविलासिनी ॥ २३-१४॥
नरमुण्डस्रजा देवी खड्गहस्ता भयानका ।
अट्टहासयुता पद्मा पद्मरागोपशोभिता ॥ २३-१५॥
वराभयप्रदा काली कालरात्रिस्वरूपिणी ।
स्वधा स्वाहा वषट्कारा शरदिन्दुसमप्रभा ॥ २३-१६॥
शरत्ज्योत्स्ना च संह्लादा विपरीतरतातुरा ।
मुक्तकेशी छिन्नजटा जटाजूटविलासिनी ॥ २३-१७॥
सर्पराजयुताभीमा सर्पराजोपरि स्थिता ।
श्मशानस्था महानन्दिस्तुता संदीप्तलोचना ॥ २३-१८॥
शवासनरता नन्दा सिद्धचारणसेविता ।
बलिदानप्रिया गर्भा भूर्भुवःस्वःस्वरूपिणी ॥ २३-१९॥
गायत्री चैव सावित्री महानीलसरस्वती ।
लक्ष्मीर्लक्षणसंयुक्ता सर्वलक्षणलक्षिता ॥ २३-२०॥
व्याघ्रचर्मावृता मेध्या त्रिवलीवलयाञ्चिता ।
गन्धर्वैः संस्तुता सा हि तथा चेन्दा महापरा ॥ २३-२१॥
पवित्रा परमा माया महामाया महोदया ।
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २३-२२॥
यः पठेत् प्रातरुत्थाय पठेत् स तु विद्यानिधिर्भवेत् ।विद्यानिधिर्भवेत्
इह लोके सुखं भुक्त्वा देवीसायुज्यमाप्नुयात् ॥देवीसायुज्यमाप्नुयात् २३-२३॥
तस्य वश्या भवन्त्येते सिद्धौघाः सचराचराः ।
खेचरा भूचराश्चैव तथा स्वर्गचराश्च ये ॥ २३-२४॥
ते सर्वे वशमायान्ति साधकस्य हि नान्यथा ।
नाम्नां वरं महेशानि परित्यज्य सहस्रकम् ॥सहस्रकम् २३-२५॥
पठितव्यं शतं देवि चतुर्वर्गफलप्रदम् ।चतुर्वर्गफलप्रदम्
अज्ञात्वा परमेशानि नाम्नां शतं महेश्वरि ॥ २३-२६॥
भजते यो महकालीं सिद्धिर्नास्ति कलौ युगे ।
प्रपठेत् प्रयतो प्रपठेत् भक्त्या तस्य पुण्यफलं शृणु ॥ २३-२७॥
लक्षवर्षसहस्रस्य कालीपूजाफलं भवेत् ।भवेत्
बहुना किमिहोक्तेन वाञ्छितार्थी भविष्यति ॥ २३-२८॥
इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे
त्रयोविंशः पटलः ॥ २


Download PDF