Sign In

Sahajanand Namavali Lyrics in Sanskrit | Free PDF Download

Sahajanand Namavali Lyrics in Sanskrit | Free PDF Download

ॐ श्रीसाक्षादक्षरपुरुषोत्तमाय नमः ।
ॐ श्रीपरमात्मने नमः ।
ॐ श्रीपरब्रह्मणे नमः ।
ॐ श्रीभगवते नमः ।
ॐ श्रीपुरुषोत्तमाय नमः ।
ॐ श्रीअक्षरधामवासाय नमः ।
ॐ श्रीदिव्यसुन्दरविग्रहाय नमः ।
ॐ श्रीसाकाराय नमः ।
ॐ श्रीद्विभुजाय नमः ।
ॐ श्रीअनादये नमः ।
ॐ श्रीसाकाराऽक्षरसेविताय नमः ।
ॐ श्रीदिव्यासनोपविष्टाय नमः ।
ॐ श्रीअनन्तमुक्तपूजिताय नमः ।
ॐ श्रीसर्वकरणशक्ताय नमः ।
ॐ श्रीसमर्थाय नमः ।
ॐ श्रीभक्तिनन्दनाय नमः ।
ॐ श्रीदिव्यजन्मने नमः ।
ॐ श्रीमहाराजाय नमः ।
ॐ श्रीदिव्यकर्मणे नमः ।
ॐ श्रीमहामतये नमः ।
ॐ श्रीनारायणाय नमः ।
ॐ श्रीघनश्यामाय नमः ।
ॐ श्रीनीलकण्ठाय नमः ।
ॐ श्रीतपःप्रियाय नमः ।
ॐ श्रीअनासक्ताय नमः ।
ॐ श्रीतपस्विने नमः ।
ॐ श्रीअलिप्ताय नमः ।
ॐ श्रीभक्तवत्सलाय नमः ।
ॐ श्रीनैकमोक्षार्थयात्राय नमः ।
ॐ श्रीसर्वात्मने नमः ।
ॐ श्रीदिव्यताप्रदाय नमः ।
ॐ श्रीस्वेच्छाधृताऽवताराय नमः ।
ॐ श्रीसर्वाऽवतारकारणाय नमः ।
ॐ श्रीईश्वरेशाय नमः ।
ॐ श्रीस्वयंसिद्धाय नमः ।
ॐ श्रीभक्तसंकल्पपूरकाय नमः ।
ॐ श्रीसंतीर्णसरयूवारये नमः ।
ॐ श्रीहिमगिरिवनप्रियाय नमः ।
ॐ श्रीपुलहाश्रमवासिने नमः ।
ॐ श्रीपवित्रीकृतमानसाय नमः ।
ॐ श्रीसाक्षराय नमः ।
ॐ श्रीसहजानन्दाय नमः ।
ॐ श्रीसर्वानन्दप्रदाय नमः ।
ॐ श्रीप्रभवे नमः ।
ॐ श्रीप्रणीतदिव्यसत्सङ्गाय नमः ।
ॐ श्रीहरिकृष्णाय नमः ।
ॐ श्रीसुखाश्रयाय नमः ।
ॐ श्रीसर्वज्ञाय नमः ।
ॐ श्रीसर्वकर्त्रे नमः ।
ॐ श्रीसर्वभर्त्रे नमः ।
ॐ श्रीनियामकाय नमः ।
ॐ श्रीसदासर्वसमुत्कृष्टाय नमः ।
ॐ श्रीशाश्वतशान्तिदायकाय नमः ।
ॐ श्रीधर्मसुताय नमः ।
ॐ श्रीसदाचारिणे नमः ।
ॐ श्रीसदाचारप्रवर्तकाय नमः ।
ॐ श्रीसधर्मभक्तिसंगोप्त्रे नमः ।
ॐ श्रीदुराचारविदारकाय नमः ।
ॐ श्रीदयालवे नमः ।
ॐ श्रीकोमलात्मने नमः ।
ॐ श्रीपरदुःखाऽसहाय नमः ।
ॐ श्रीमृदवे नमः ।
ॐ श्रीसंत्यक्तसर्वथाहिंसाय नमः ।
ॐ श्रीहिंसावर्जितयागकृते नमः ।
ॐ श्रीसकलवेदवेद्याय नमः ।
ॐ श्रीवेदसत्यार्थबोधकाय नमः ।
ॐ श्रीवेदज्ञाय नमः ।
ॐ श्रीवेदसाराय नमः ।
ॐ श्रीवैदिकधर्मरक्षकाय नमः ।
ॐ श्रीदिव्यचेष्टाचरित्राय नमः ।
ॐ श्रीसर्वकारणकारणाय नमः ।
ॐ श्रीअन्तर्यामिणे नमः ।
ॐ श्रीसदादिव्याय नमः ।
ॐ श्रीब्रह्माऽधीशाय नमः ।
ॐ श्रीपरात्पराय नमः ।
ॐ श्रीदर्शिताऽक्षरभेदाय नमः ।
ॐ श्रीजीवेशभेददर्शकाय नमः ।
ॐ श्रीमायानियामकाय नमः ।
ॐ श्रीपञ्चतत्त्वप्रकाशकाय नमः ।
ॐ श्रीसर्वकल्याणकारिणे नमः ।
ॐ श्रीसर्वकर्मफलप्रदाय नमः ।
ॐ श्रीसकलचेतनोपास्याय नमः ।
ॐ श्रीशुद्धोपासनबोधकाय नमः ।
ॐ श्रीअक्षराधिपतये नमः ।
ॐ श्रीशुद्धाय नमः ।
ॐ श्रीशुद्धभक्तिप्रवर्तकाय नमः ।
ॐ श्रीस्वामिनारायणेत्याख्य-दिव्यमन्त्रप्रदायकाय नमः ।
ॐ श्रीस्वप्रतिमाप्रतिष्ठाकृते नमः ।
ॐ श्रीस्वसम्प्रदायकारकाय नमः ।
ॐ श्रीप्रस्थापितस्वसिद्धान्ताय नमः ।
ॐ श्रीब्रह्मज्ञानप्रकाशकाय नमः ।
ॐ श्रीगुणातीतोक्तमाहात्म्याय नमः ।
ॐ श्रीअक्षराऽऽत्मैक्यप्रबोधकाय नमः ।
ॐ श्रीमूलाक्षरगुणातीतस्वरूप-परिचायकाय नमः ।
ॐ श्रीभक्तिलभ्याय नमः ।
ॐ श्रीकृपासाध्याय नमः ।
ॐ श्रीभक्तदोषनिवारकाय नमः ।
ॐ श्रीशास्त्रिस्थापितसब्रह्म-धातुमूर्तये नमः ।
ॐ श्रीअलौकिकाय नमः ।
ॐ श्रीब्रह्मद्वारकप्राकट्याय नमः ।
ॐ श्रीसम्यगक्षरसंस्थिताय नमः ।
ॐ श्रीसमाधिकारकाय नमः ।
ॐ श्रीनिखिलपापनाशकाय नमः ।
ॐ श्रीसर्वतन्त्रस्वतन्त्राय नमः ।
ॐ श्रीमायिकगुणवर्जिताय नमः ।
ॐ श्रीदिव्याऽनन्तगुणाय नमः ।
ॐ श्रीअनन्तनाम्ने नमः ।
ॐ श्रीअक्षरपुरुषोत्तममहाराजाय नमः ।
ॐ श्रीगुणातीतानन्दस्वामिमहाराजाय नमः ।
ॐ श्रीभगतजीमहाराजाय नमः ।
ॐ श्रीशास्त्रिजीमहाराजाय नमः ।
ॐ श्रीयोगिजीमहाराजाय नमः ।
ॐ श्रीप्रमुखस्वामिमहाराजाय नमः ।
ॐ श्रीमहन्तस्वामिमहाराजाय नमः ।

॥ इति श्रीसहजानंदनामावली समाप्ता ॥

Download PDF