शांति मंत्रम् | Shanti Mantram | Free PDF Download
आपो॒ हिष्ठा म॑यो॒भुवः॒ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ ह नः॒ । उ॒ष॒तीरि॑व मा॒तरः॑ । तस्मा॒ अरं॑गमामवो॒ यस्य॒ क्षया॑य॒ जि॑न्वथ । आपो॑ ज॒नय॑था च नः ।
पृ॒थि॒वी शां॒ता साग्निना॑ शां॒ता सामे॑ शा॒ंता शुचग्ं॑ शमयतु । अं॒तरि॑क्षग्ं शां॒तं तद्वा॒युना॑ शां॒तं तन्मे॑ शां॒तग्ं शुचग्ं॑ शमयतु । द्यौश्शां॒ता॒ सादि॒त्येन॑ शां॒ता सा मे॑ शां॒ता शुचग्ं॑ शमयतु ।
पृ॒थि॒वी शांति॑रं॒तरि॑क्ष॒ग्ं॒ शांति॒र्-द्यौ-श्शांति॒र्-दिश॒-श्शांति॑-रवांतरदि॒शा-श्शांति॑ र॒ग्नि-श्शांति॑र्-वा॒यु-श्शांति॑-रादि॒त्य-श्शांति॑-श्चंद्र॒मा॒-श्शांति॒र्-नक्ष॑त्राणि॒-श्शांति राप॒श्शांति॒-रोष॑धय॒-श्शांति॒र्-वन॒स्पत॑य॒-श्शांति॒र्-गौ॑-श्शांति॑-र॒जा-शांति-रश्व॒-श्शांतिः॒ पुरु॑ष॒-श्शांति॒-ब्रह्म॒-शांति॑र्-ब्राह्म॒ण-श्शांति-शांति॑-रेव शांति-शांति॑-र्मे अस्तु॒ शांतिः॑ ।
तया॒हग्ं शान्॒त्या॒ स॑र्वशां॒त्या॒ मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शांतिं॑ करोमि शांति॑र्मे अस्तु॒ शांतिः॑ ॥
एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठंत॒-मनूत्ति॑ष्ठंतु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ।
उदायु॑षा स्वा॒युषोदो॑षदीना॒ग्ं॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोदस्थाम॒मृता॒ग्ं॒ अनु॑ । तच्चक्षु॑र्-दे॒वहि॑तं पु॒रस्ता᳚च्चु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नंदा॑म श॒रद॑श्श॒तं मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं जोक्च॒ सूर्यं॑ दृ॒षे ।
य उद॑गान्मह॒तोऽर्णवा᳚द्-वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥
ब्रह्म॑ण॒श्चोत॒न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्राह्म॑ण आ॒वप॑नमसि धारि॒तेयं पृ॑थि॒वी ब्रह्म॑णा म॒ही दा॑रि॒तमे॑नेन म॒हदन्॒तरि॑क्षं॒ दिवं॑ दाधार पृथि॒वीग्ं सदेवां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मामद्वेदोऽथि॒ विस्र॑सत् ।
मे॒धा॒म॒नी॒षे मावि॒शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ।
आ॒भिर्-गी॒र्भि र्यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ सं त्वा॑ सिंचामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इंद्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्-मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जं । शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॒ष्पदे ।
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
Download PDF