Sign In

Shiv Raksha Stotra | शिव रक्षा स्तोत्र | Free PDF Download

Shiv Raksha Stotra | शिव रक्षा स्तोत्र | Free PDF Download

विनियोग:

सीधे हाथ में जल लेकर विनियोग पढ़कर जल भूमि पर छोड़ दे।

ॐ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः॥

श्री सदाशिवो देवता॥अनुष्टुप् छन्दः॥

श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।

अपारं परमोदारं चतुर्वर्गस्य साधनम् ।।1।।

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।

शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥2॥

गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।

नयने मदनध्वंसी कर्णो सर्पविभूषण ॥3॥

घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।

जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥4॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।

भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥5॥

हृदयं शंकरः पातु जठरं गिरिजापतिः ।

नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥6॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।

उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥7॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।

चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥8॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।

स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥9॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।

दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥10॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥11॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।

प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥12॥

॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिव रक्षा स्तोत्रं सम्पूर्णम् ॥

Download PDF