Sign In

श्रीमूकाम्बिकाष्टकम् | Shri Mukambika Ashtakam | Free PDF Download

श्रीमूकाम्बिकाष्टकम् | Shri Mukambika Ashtakam | Free PDF Download

॥ श्रीमूकाम्बिकाष्टकम् ॥
नमस्ते जगद्धात्रि सद्‍ब्रह्मरूपे
नमस्ते हरोपेन्द्रधात्रादिवन्दे ।
नमस्ते प्रपन्नेष्टदानैकदक्षे
नमस्ते महालक्ष्मि कोलापुरेशि
॥ १॥
विधिः
कृत्तिवासा हरिर्विश्वमेतत्
-हरिर्विश्वमेतत्
सृजत्यत्ति पातीति यत्तत्प्रसिद्धं कृपालोकनादेव ते शक्तिरूपे
नमस्ते महालक्ष्मि कोलापुरेशि
॥ २॥
त्वया मायया व्याप्तमेतत्समक्षं var समस्तं धृतं लीलया देवि कुक्षौ हि विश्वम् ।विश्वम् स्थितां
बुद्धिरूपेण सर्वत्र जन्तौ
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ३॥
यया भक्तवर्गा हि लक्ष्यन्त एते
त्वयाऽत्र प्रकामं
कृपापूर्णदृष्ट्या ।
अतो गीयसे
देवि लक्ष्मीरिति त्वं
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ४॥
पुनर्वाक्पटुत्वादिहीना हि
मूका
नरास्तैर्निकामं खलु प्रार्थ्यसे यत्
निजेष्टाप्तये तेन
मूकाम्बिका त्वं
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ५॥
यदद्वैतरूपात्परब्रह्मणस्त्वं
समुत्था
पुनर्विश्वलीलोद्यमस्था ।
तदाहुर्जनास्त्वां
च गौरीं कुमारीं
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ६॥
हरेशादि
देहोत्थतेजोमयप्र
स्फुरच्चक्रराजाख्यलिङ्गस्वरूपे ।
महायोगिकोलर्षिहृत्पद्मगेहे
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ७॥
नमः शङ्खचक्राभयाभीष्टहस्ते
नमः त्र्यम्बके गौरि पद्मासनस्थे । नमस्तेऽम्बिके
नमः स्वर्णवर्णे प्रसन्ने शरण्ये
नमस्ते महालक्ष्मि कोलापुरेशि
॥ ८

इदं स्तोत्ररत्नं कृतं सर्वदेवै -सर्वदेवै
र्हृदि त्वां समाधाय लक्ष्म्यष्टकं यः ।
पठेन्नित्यमेष व्रजत्याशु लक्ष्मीं
सुविद्यां च सत्यं भवत्याः प्रसादात् ॥प्रसादात् ९ ॥

Download PDF