सीताराम अष्टकम् | Sita Ram Ashtakam | Free PDF Download
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरूद्रमुनीन्द्रगणैरतिरम्यं क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ।।1।।
पद्मदलायतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरदनीलतनोऽखिललोकह्रदम्बुजभासक भानो ।
कोमलगात्र पवित्रपदाब्जरज: कणपावितगौतमकान्त । त्वां. ।।2।।
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे प्राव्रडदभ्रतडित्सुमनोहरपीतवराम्बर राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण रत्नकिरीट । त्वां. ।।3।।
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले कोटिरविप्रभ चारूचरित्रपवित्र विचित्रधनु:शरपाणे ।
चंडमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं । त्वां. ।।4।।
दोषविहिंस्त्रभुजंगसहस्त्रसुरोषमहानलकीलकलापे जन्मजरामरणोर्मिमये मदमन्मथनक्रविचक्रभवाब्धौ ।
दुःखनिधौ च चिरं पतितं कृपयाध समुद्धर राम ततो मां । त्वां. ।।5।।
संसृतिघोरमदोत्कटकुञ्जरतृट्क्षुदनीरदपिण्डिततुंडं दण्डकरोन्मथितं च रजस्तम उन्मदमोहपदोज्झितमार्तम् ।
दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढ़ं । त्वां. ।।6।।
जन्मशतार्जितपापसमन्वितह्रत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम तावदसि त्ववितापि कृपालो । त्वां. ।।7।।
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् ।
त्वत्पदपद्ममत: श्रितमेव मुदा खलु देव सदाव ससीत । त्वां. ।।8।।
य: करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी भक्तभयोर्मिभवाब्धितरि: सरयूतटिनीतटचारुविहारी ।
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु पठेदमर: स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ।।9।।
Download PDF